लोगों की राय

भारतीय जीवन और दर्शन >> रघुवंश महाकाव्यम्

रघुवंश महाकाव्यम्

जनार्दन शास्त्री पाण्डे

प्रकाशक : मोतीलाल बनारसीदास पब्लिशर्स प्रकाशित वर्ष : 2004
पृष्ठ :51
मुखपृष्ठ : पेपरबैक
पुस्तक क्रमांक : 11308
आईएसबीएन :8120825624

Like this Hindi book 0

अष्टमः सर्गः


अथ तस्य विवाहकौतुकं ललितं बिभ्रत एव पार्थिवः।
वसुधामपि हस्तगामिनीमकरोदिन्दुमतीमिवापराम् ॥१॥

दुरितैरपि कर्तुमात्मसात् प्रयतन्ते नृपसनवो हि यत्।
तदुफस्थित मग्रहीदजः पितुराज्ञेतिन भोगतृष्णया॥२॥

अनुभूय वसिष्ठसंभृतैः सलिलैस्तेन सहाभिषेचनम्।
विशदोच्छ्वसितेन मेदिनी कथयामास कृतार्थतामिव॥३॥

स बभूव दुरासदः परे गुरुणाथर्वविदा कृतक्रियः।
पवनाग्निसमागमो ह्ययं सहितं ब्रह्म' यदस्त्रतेजसा॥४॥

रघुमेव निवृत्तयौवनं तममन्यन्त नवेश्वरं प्रजाः।
स हि तस्य न केवल श्रियं प्रतिपेदे सकलान् गुणानपि ॥५॥

अधिकं शुशुभे शुभंयुना. द्वितयेन द्वयमेव सङ्गतम्।
पदमृद्धमजेन पैतृक विनयेनास्य नवं च यौवनम्॥६॥

सदयं बुभुजे महाभुजः सहसोद्वेगमियं व्रजेदिति।
अचिरोपनतां से मेदिनीं नवपाणिग्रहणां वधूमिव॥७॥

अहमेव मतो महीपतेरिति सर्वः प्रकृतिध्वचिन्तयत्।
उदधेरिव निम्नगाशतेष्वभवन्नास्य विमानना क्वचित्॥८॥

न खरो न च भूयसा मृदुः पवमानः पृथिवीरुहानिव।
स पुरस्कृतमध्यमक्रमो नमयामास नृपाननुद्धरन्॥९॥

अथ वीक्ष्य रघुः प्रतिष्ठितं प्रकृतिष्वात्म जमात्मवत्तया।
विषयेषु विनाशधर्मसु त्रिदिवस्थेष्वपि नि:स्पृहोऽभवत्॥१०॥

...Prev | Next...

<< पिछला पृष्ठ प्रथम पृष्ठ अगला पृष्ठ >>

    अनुक्रम

  1. प्रथमः सर्गः
  2. द्वितीयः सर्गः
  3. तृतीयः सर्गः
  4. चतुर्थः सर्गः
  5. पञ्चमः सर्गः
  6. षष्ठः सर्गः
  7. सप्तमः सर्गः
  8. अष्टमः सर्गः
  9. नवमः सर्गः
  10. दशमः सर्गः
  11. एकादशः सर्गः
  12. द्वादशः सर्गः
  13. त्रयोदशः सर्गः

अन्य पुस्तकें

लोगों की राय

No reviews for this book

A PHP Error was encountered

Severity: Notice

Message: Undefined index: mxx

Filename: partials/footer.php

Line Number: 7

hellothai